Shree Swami Samarth Nam:

|| श्री स्वामी समर्थ ||


|| श्री अनघा अष्टक कवच||



शिरो मे अनघा पातु भालं मे दत्तभामिनी ।
भ्रूमध्यं योगिनी पातु नेत्रे पातु सुदर्शिनी ॥ १॥

नासारन्ध्रद्वये पातु योगिशी भक्तवत्सला ॥

मुखं मे मधुवाक्पातु दत्तचित्तविहारिणी ॥ २॥

त्रिकण्ठी पातु मे कण्ठं वाचं वाचस्पतिप्रिया ।
स्कन्धौ मे त्रिगुणा पातु भुजौ कमलधारिणी ॥ ३॥

करौ सेवारता पातु हृदयं मन्दहासिनी ।
उदरं अन्नदा पातु स्वयञ्जा नाभिमण्डलम् ॥ ४॥

कमनिया कटि पातु गुह्यं गुह्येश्वरी सदा ।
ऊरु मे पातु जम्भघ्नी जानुनी रेणुकेष्टदा ॥ ५॥

पादौ पादस्थिता पातु पुत्रदा वै खिलं वपुः ।
वामगा पातु वामाङ्गं दक्षाङ्ग गुरुगामिनी ॥ ६॥

गृहं मे दत्तगृहिणी बाह्ये सर्वात्मिकाऽवतु ।
त्रिकाले सर्वदा रक्षेत् पतिशुश्रुणोत्सुका ॥ ७॥

जाया मे दत्तवामाङ्गी अष्टपुत्रा सुतोऽवतु ।
गोत्रमत्रि स्नुषा रक्षेदनघा भक्तरक्षणी ॥ ८॥

यः पठेदनघाकवचं नित्यं भक्तियुतो नरः ।
तस्मै भवत्यनघाम्बा वरदा सर्वभाग्यदा ॥

इति श्री अनघाकवचाष्टकं सम्पूर्णम् ।


श्रीगणेशाय नमः ।


॥ श्री गुरुदत्तात्रेयार्पणमस्तु ॥
|| श्री स्वामी समर्थापर्ण मस्तु||

Download pdf
Back